Vedrishi

आर्यभटीयम्

Aryabhateeyam

800.00

Subject: MAITRAYANIYA SULBASUTRAM
Edition: 2016
Publishing Year: 2016
ISBN : 9788180000000
Pages: 222
BindingHardcover
Dimensions: 14X22X4
Weight: 560gm

अतिप्राचीनकालादेव मानवाः स्वं परितः भूयमानानामाकाशीय घटनानामवलोकने तत्पराः दृश्यन्ते । आकाशीयघटनानां निश्चित्क्रमं दृष्ट्वैव तेषां क्रमज्ञानाय ज्योतिषशास्त्रज्ञैः नियमाः कल्पिताः एषां नियमानां क्रमबद्धवर्णनं यस्मिन् शास्त्रे वर्तते तच्छास्त्रं ज्योतिषशास्त्रनाम्ना ज्ञायते । ज्योतिषिं प्रतिपाद्यन्ते यस्मिन्नित्यर्थे ‘अर्ष आदिभ्योऽच्' इति सूत्रेण निष्पन्नो ज्योतिषशब्दो ज्योतिः प्रतिपादकोऽस्ति । अस्मिन्नेव शास्त्र आकाशे विद्यमानानां ज्योतिः पिण्डानां गतेः, स्थितेः, स्वरूपस्य, तेषां प्रभावस्य, तेषां माध्यमेन च भूमौ भूयमानानां घटनानामध्ययनं क्रियते । अस्मादेव कारणात् शास्त्रमिदं खगोलविज्ञानम्, अन्तरिक्षविज्ञानम्, प्रकाशविज्ञानम्, नक्षत्रविज्ञानम्, सौरविज्ञानम्, ब्रह्माण्डविज्ञानमितिशब्दैः व्यवह्रियते।

आकाशीयपिण्डानां माध्यमेन भूयमाना इमा: घटनाः कथं कस्मिन् समये च भवन्ति ? तेषां घटनानां प्राणीवनस्पत्यादिषु च कः प्रभावो भवति? इति दीर्घकालं यावदनुसन्धानतृभिराचार्यैर्नियमाः कल्पिताः । एषां नियमानां प्रतिपादनं च तैः स्व-स्वग्रन्थेषु कृतो वर्तते । ग्रन्थेषु प्रतिपादितेषु नियमेषु दीर्घकालानन्तरं यदा स्थौल्यं जायते तदा तत्र समागतानां स्थूलतानां निवारणाय, दोषाणां परिष्काराय, सूक्ष्मतां च दर्शनायाचार्यैः बीजसंस्कारपूर्वकं तेषां परिष्कृतरूपाः नूतनसिद्धान्तरूपेण प्रतिपादिताः। बीजसंस्कारेण संस्कृतस्य नूतनपरिष्कृतसिद्धान्तस्य प्रतिपादनं येनाचार्येण कृतं सः तस्य प्रवर्तकत्वेन ज्ञायते । एवं ज्योतिषशास्त्रस्य विकासपरम्परायामष्टादशाचार्याः प्रवर्तकत्वेन ज्ञायन्ते । तथा चोक्तम्

सूर्यः पितामहो व्यासो वसिष्ठोऽत्रिः पराशरः । कश्यपो नारदो गर्गो मरीचिर्मनुरङ्गिरा | लोमश: पौलिशश्चैव च्यवनो यवनो भृगुः शौनकोऽष्टादशश्चैते ज्योतिः शास्त्रप्रवर्तकाः। 

Reviews

There are no reviews yet.

You're viewing: Aryabhateeyam 800.00
Add to cart
Register

A link to set a new password will be sent to your email address.

Your personal data will be used to support your experience throughout this website, to manage access to your account, and for other purposes described in our privacy policy.

Lost Password

Lost your password? Please enter your username or email address. You will receive a link to create a new password via email.

Close
Close
Shopping cart
Close
Wishlist