Vedrishi

पाणिनीयशब्दानुशासनम्

Paniniyshabdanushasanam

200.00

Subject: Brahmacharya Dukh Nivarak Divya mani
Edition: 2021
Publishing Year: 2006
ISBN : 9789380000000
Pages: 460
BindingPaper back
Dimensions: 14X22X6
Weight: 800gm

ऐहिकामुष्मिकसुखावाप्तये ज्ञानविज्ञानोपलब्धये पारस्परिकलोकव्यवहाराय च शब्दज्ञानमनिवार्यम् । व्याकरणज्ञानं च शब्दज्ञानस्य लघुतमोपायः । समुपलब्धव्याकरणेषु च पाणिनीयव्याकरणमेव परिपूर्णम्पूर्धन्य स्प्राचीनतमञ्च | तत्र व्याकरणाध्ययनस्य द्वे पद्धती व्यवह्रियेते सम्प्रति । एका लक्षणप्रधानाऽपरा च लक्ष्यप्रधाना। आचार्य – प्रोक्तसूत्रादि-क्रमेणैव यत्राध्ययनाध्यापनादि विधीयते सा लक्षणप्रधाना । यत्र तु लक्ष्यम्मुख्यतयाऽक्षिलक्षीकृत्य व्युत्क्रमेणापि सूत्रव्याख्या प्रस्तूयते तत्प्रयोगश्च क्रियते सा लक्ष्यप्रधाना। अनयोः प्रथमा सम्प्रति 'प्राचीनव्याकरणम्' इत्यपरा च 'नव्यव्याकरणम्' इति नाम्नाऽभिज्ञायते । नाम्नैव स्पष्टमिदं यल्लक्ष्यप्रधानेयं पद्धतिरर्वाचीनाऽस्ति । लक्ष्यप्रधानाया अस्याः शैल्याः प्रतिपादकानाम्प्रक्रियाग्रन्थानां रूपावतार – प्रक्रिया कौमुदी – सिद्धान्तकौमुदीप्रभृतीनां रचना क्रमशो द्वादश्याः शताब्द्या आरभ्य षोडशशताब्दी पर्यन्तकाले बभूव । विक्रमार्कस्य द्वादश्याः शताब्याः प्राङ् नामापि कश्चिन्न विवेदाऽस्याः पद्धतेः । तदा सर्वे पाणिन्याद्याचार्य-प्रोक्तक्रमेणैव व्याकरणमधीयते स्म । नानाशास्त्रकृतो महाकाव्यानां काव्यानाञ्च प्रणेतारो विपश्चितोऽनयैव सरण्या सूत्रक्रमात्मिकया व्याकरणमधीत्य शब्दशास्त्रपारङ्गता बभूवुः । वृत्तिफक्किकादिघोषणात्मकानां प्रक्रियाग्रन्थानाम्प्रचलनेन व्याकरणज्ञानं दुरूहतामापेदे । शनैः शनैश्च व्याकरणाध्ययनं विरलताञ्जगाम |

Reviews

There are no reviews yet.

You're viewing: Paniniyshabdanushasanam 200.00
Add to cart
Register

A link to set a new password will be sent to your email address.

Your personal data will be used to support your experience throughout this website, to manage access to your account, and for other purposes described in our privacy policy.

Lost Password

Lost your password? Please enter your username or email address. You will receive a link to create a new password via email.

Close
Close
Shopping cart
Close
Wishlist