ऐहिकामुष्मिकसुखावाप्तये ज्ञानविज्ञानोपलब्धये पारस्परिकलोकव्यवहाराय च शब्दज्ञानमनिवार्यम् । व्याकरणज्ञानं च शब्दज्ञानस्य लघुतमोपायः । समुपलब्धव्याकरणेषु च पाणिनीयव्याकरणमेव परिपूर्णम्पूर्धन्य स्प्राचीनतमञ्च | तत्र व्याकरणाध्ययनस्य द्वे पद्धती व्यवह्रियेते सम्प्रति । एका लक्षणप्रधानाऽपरा च लक्ष्यप्रधाना। आचार्य – प्रोक्तसूत्रादि-क्रमेणैव यत्राध्ययनाध्यापनादि विधीयते सा लक्षणप्रधाना । यत्र तु लक्ष्यम्मुख्यतयाऽक्षिलक्षीकृत्य व्युत्क्रमेणापि सूत्रव्याख्या प्रस्तूयते तत्प्रयोगश्च क्रियते सा लक्ष्यप्रधाना। अनयोः प्रथमा सम्प्रति ‘प्राचीनव्याकरणम्’ इत्यपरा च ‘नव्यव्याकरणम्’ इति नाम्नाऽभिज्ञायते । नाम्नैव स्पष्टमिदं यल्लक्ष्यप्रधानेयं पद्धतिरर्वाचीनाऽस्ति । लक्ष्यप्रधानाया अस्याः शैल्याः प्रतिपादकानाम्प्रक्रियाग्रन्थानां रूपावतार – प्रक्रिया कौमुदी – सिद्धान्तकौमुदीप्रभृतीनां रचना क्रमशो द्वादश्याः शताब्द्या आरभ्य षोडशशताब्दी पर्यन्तकाले बभूव । विक्रमार्कस्य द्वादश्याः शताब्याः प्राङ् नामापि कश्चिन्न विवेदाऽस्याः पद्धतेः । तदा सर्वे पाणिन्याद्याचार्य-प्रोक्तक्रमेणैव व्याकरणमधीयते स्म । नानाशास्त्रकृतो महाकाव्यानां काव्यानाञ्च प्रणेतारो विपश्चितोऽनयैव सरण्या सूत्रक्रमात्मिकया व्याकरणमधीत्य शब्दशास्त्रपारङ्गता बभूवुः । वृत्तिफक्किकादिघोषणात्मकानां प्रक्रियाग्रन्थानाम्प्रचलनेन व्याकरणज्ञानं दुरूहतामापेदे । शनैः शनैश्च व्याकरणाध्ययनं विरलताञ्जगाम |
Free Shipping Above ₹1500 On All Books |
Minimum ₹500 Off On Shopping Above ₹10,000 |
Minimum ₹2500 Off On Shopping Above ₹25,000 |
Free Shipping Above ₹1500 On All Books |
Minimum ₹500 Off On Shopping Above ₹10,000 |
Minimum ₹2500 Off On Shopping Above ₹25,000 |
Paniniyshabdanushasanam
पाणिनीयशब्दानुशासनम्
Paniniyshabdanushasanam
₹200.00
Subject : Paniniyshabdanushasanam
Edition : 2022
Publishing Year : 2022
SKU # : 37614-PP00-SH
ISBN : 9788170773177
Packing : Paperback
Pages : 324
Dimensions : 14X22X4
Weight : 800
Binding : Paperback
Reviews
There are no reviews yet.