तत्र छन्दः समीक्षास्थश्छन्दवत्त्वंवादः- अथ किमिदं छन्द ! इति पृच्छामः ।
“ननु च भोः । यदि कधिहूयात्-कः सद्ध माक्षण? इति, सोऽयं त्रिविधः पर्यनुयोगो भवति-लक्ष्यापेक्षः, लक्षण्यापेक्षः, लक्षणापेक्षव। तदतश्विविधः समाधिर्भवति- असौ देवदत्तो ब्राह्मण इति लक्ष्यापेक्षः, कश्यपात्रिरोग्वत्रिवसिष्ठविश्वामित्रागस्त्याख्याः सप्तव ब्राह्मणजानयो भवन्ति इति लक्षण्यापेक्षः,
‘विद्या योनिः कर्म चेति त्रयं ब्राद्मप्यलक्षणम् । सेवा संग्रहवृद्धिध कालयापथ्य पातनम् ॥ जीवितं यस्य धर्मार्थ धर्मो रत्यर्थमेव च । अहोरात्राध पुण्यार्य तं देवा ब्राह्मणं विदुः ॥ कर्मणा ब्राह्मणो जातः करोति ब्रह्मभावनाम् । खधर्मनिरतः शुद्धत्वस्माद्राह्मण उच्यते ॥ जात्या कुलेन वृत्तेन खाध्यायेन श्रुतेन च । एभिर्युको हि यस्तिष्ठेन्नित्यं-स द्विज उच्चते ॥ वृतिः क्षमा दयास्तेयं शौचमिन्द्रियनिग्रहः । विद्या चैव तपः सत्यं नवकं ब्रह्मलक्षणम् ॥’ इति लक्षणापेक्षा ।
एवमेवेदं यददः पर्यनुयुज्यते किमिदं छन्द ? इति; सोऽयं त्रिविधः पर्यनुयोगो भवति- उक्ष्यापेक्षः, लक्षष्यापेक्षः, लक्षणापेक्षष। तदतस्त्रिविधः समाधिर्भवति – ‘अ॒ग्निर्मीळे पुरोहितं य॒शय॑ दे॒वमृत्विज॑म् । होता॑रं स्व॒धात॑मम् ॥’ (ऋ. १ अ. १
अ. १ व.) इतीदं छन्द इति लक्ष्यापेक्षः, गायत्र्युष्णिगनुष्टुन्बृहतीपक्तिस्त्रिष्टुब्जगत्या-
ख्याः सप्तैव छन्दोजातयो भवन्तीति लक्षण्यापेक्षः, ‘यदक्षरपरिमाणं तच्छन्दः’ ‘मात्रा-
क्षरसंख्यानियता वाकू छन्द’ इति लक्षणापेक्षश्व ।
Reviews
There are no reviews yet.