पुस्तक का नाम – पाणिनीयशब्दानुशासनम्
सम्पादक – पं. ईश्वरचन्द्र
पाणिनीयशब्दानुशासनस्य बहूपयोगि, सर्वाध्येतृहृदयोद्ग्राह्यनुसन्धानदृष्ट्योपादेयं संस्करणमेकं प्रकाश्यतामिति पुरा पितृचरणानां चेतसि धीरुदपादि। तेषु दिवङ्गतेषु, स एव सङ्कल्पाङ्कुर इह दिव्यधाम्नि नगरेऽनाथनाथविश्वनाथ प्रसादादग्रजकल्पानां – श्रीमत्किरोड़ीमलशास्त्रिणां प्रेरणयाऽभूत् फलवानद्य। पितृपादानामन्तरङ्ग सङ्कल्पं सफलितमवलोक्य भृशं हर्षमावहति मे मनः। अस्य संस्करणस्य वैशिष्ट्यं हि तद्यथा – 1 प्रत्येकं सूत्रस्य पदच्छेदो दर्शितः। 2 प्रत्येकं पदस्याऽसंहितरूपं दर्शितम्। 3 प्रत्येकं पदस्य विभक्तिनिर्देशः कृतः। 4 भाष्यानुसारी सूत्रपाठः स्वीकृतः। 5 वार्तिकपाठो भाष्यानुसारी तत् तत् सूत्रेषु यथास्थानमेव दर्शितः। 6 श्रीमद्गोपालदत्तपाण्डेयसम्पादितायां सिद्धान्तकौमुद्यां प्रकाशितो गणपाठोऽस्माभिरुररीकृतो यथास्थानमेव दर्शितः। 7 पूर्वशास्त्रप्राप्ताऽनुवृत्तिर्लघुकोष्ठेषु प्रदर्शिता। 8 सूत्रैः सममेव विशिष्टाः पादटिप्पन्यो गुरुकोष्ठेषु [] प्रदर्शिताः। 9 परम्परया प्राप्तानां सम्प्रति गुरुमुखबोध्यानामनुनासिकादिचिह्नानां प्रयोगः कृतः यथा – नुँट्, मुँम्।
Reviews
There are no reviews yet.