पुस्तक परिचयः उणादिवृत्तिः (महोपाध्यायश्रीमदुज्जवलदत्तेन विरचिता विविधैः पाठभेदैरिष्टटिप्फणीभिरनेकशः परिशिष्टैर्विस्तृतभूमिकया च संयुता) – सम्पादकः दोलामणिः आर्यः
वस्तुतो वेदाङ्गानां प्रवृत्तिः मूलरूपेण वेदानां स्वरूपार्थयोः संरक्षणार्थं समजायत इति तद्विदः। तत्राङशब्दस्योपकारपरत्वाद् वेदार्थावधारणे वेदाङ्गानां साक्षादुपकारित्वम्। पदपदार्थावगमनहेतुत्वाद् व्याकरणस्य प्राधान्यं सवैरप्यभयनुज्ञायते। परम्पराविद्भिराचार्यैः व्याकरणशास्त्राणि त्रिधाभिद्यन्ते-प्रातिशाख्याख्यानि छान्दसानि, कातन्त्रादीनि लौकिकानि लौकिकवैदिकोभयविधत्वात् पाणिन्यादीनि च। सर्वपारिषदं हीदं शास्त्रम् इति भाष्यवचनात् सम्प्रति पाणिनीयतन्त्रमेव वेदाङ्गपदेनावगम्यते। अनन्तशब्दराशिसंग्रहणाय समुहच्छब्दानुशासनमपि न सर्वथा क्षम इति शब्दानुशासनस्य खिलपाठानां महत्वपूर्णं स्थानम्। तत्रोणादिपाठस्य नैगमरूढिशब्दावगमने विशेषणोपादेयत्वम्। महावैयाकरणोज्जवलदत्तेन विरचितेयम् उपलब्धोणादिवृत्तिष्वेका आद्यतमा उणादिवृत्तिः। वृत्तिरूदाहरणसमालोचनापूर्वकं सर्वाङ्गपूर्णं रूचिकरं व्याखानं प्रस्तौति।
Reviews
There are no reviews yet.