सम्पादकाभ्यां किञ्चित्
सुविदितमेव समेषां विपश्चिदपश्चिमानां यत् व्याकरणशास्त्रस्य प्रक्रियाग्रन्थेषु सर्वोच्चं स्थानं श्रीमद्- भट्टोजिदीक्षितकृताया: सिद्धान्तकौमुद्या : अस्ति। ग्रन्थोऽयं व्याकरणप्रक्रियाया: पूर्णतां कारयति। अत्र अष्टाध्याय्या : समग्राणि सूत्राणि प्रक्रियादृष्ट्या संगृहीतानि सन्ति। आचार्येण भट्टोजिदीक्षितेन भाषादृष्टया वाक्यमभिलक्ष्य (सुपतिचयो वाक्यम्) सिद्धान्तकौमुदी-पूर्वार्ध-उत्तरार्थ भेदेन विभक्ता। पूर्वार्थ सुबन्तशब्दानां सिद्धौ उपयोगिप्रकरणानि समावेश्य तदन्तर्गते संज्ञा- परिभाषा-सन्धि-सुबन्ताव्यय-स्त्रीप्रत्यय-कारक-समास-तद्धित प्रकरणानि निबद्धानि सन्ति। उत्तरार्धे च तिङ्ङ्क्तप्रकरणानि ण्यन्तादि प्रक्रियाः कृदन्त प्रकरणञ्च प्रतिपादितानि वर्तन्ते। एतदतिरिच्य वैदिकप्रकरणं अन्ते प्रकरणद्वयं महत्त्वपूर्ण समाविष्टं विद्यते स्वरप्रकरणञ्च । अन्ते विद्यमानयो: द्वयोः प्रकरणयो: समावेशेन ज्ञायते यत् दीक्षितमहोदयः प्रथमं लौकिकशब्दानां सिद्धिम् इष्टवान्, यतोहि उत्तरकृदन्तस्य अन्ते विद्यमानपुष्पिकया इदमेव सूच्यते-
इत्थं लौकिकशब्दानां दिमात्रमिह दर्शितम्। विस्तरस्तु यथा शास्त्रं दर्शितः शब्दकौस्तुभे ॥
पुनः वैदिकशब्दानां निर्वचनाभावमनुभूय भट्टोजिदीक्षितः सर्वान्ते स्वरवैदिकीप्रक्रियां संयोज्य तदनुसारं पृथक् पुष्पिकाम् अवोचत् –
इत्थं वैदिकशब्दानां दिमात्रमिह दर्शितम्। तदस्तु प्रीतये श्रीमद् भवानीविश्वनाथयोः ।।
एवं रीत्या महावैयाकरणः भट्टोजिदीक्षित: लौकिकस्य वैदिकस्य चोभयविधशब्दस्य सिद्धिं विधाय प्रक्रियाशैलीं पूर्णताशिखरमगमयत्।
Reviews
There are no reviews yet.